रघुवंशम्-1.20
श्लोकः
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥1.20॥
पदविभागः
तस्य संवृत-मन्त्रस्य गूढ-आकार-इङ्गितस्य च । फल-अनुमेयाः प्रारम्भाः संस्काराः प्राक्तनाः इव ॥
अन्वयः
संवृत-मन्त्रस्य गूढाकारेङ्गितस्य च तस्य प्रारम्भाः प्राक्तनाः संस्काराः इव फलानुमेयाः बभूवुः ॥1.20॥
वाच्यपरिवर्तनम्
संवृत मन्त्रस्य गूढाकारेङ्गितस्य च तस्य प्रारंभैः प्राक्तनैः संस्कारैः इव फलानुमेयैः बभूवे ॥
सरलार्थः
यथा हि पूर्वजन्मोपार्जितं कर्म इह जन्मनि फलदर्शनेन ज्ञायते तथैव दिलीपस्य गूढमन्त्रकार्यमपि फलदर्शनेन अन्यैः जनैः अनुमीयते स्म। फलसिद्धेः प्राक् दिलीपस्य कार्यसाधनोपायान् ज्ञातुं कोपि समर्थो न बभूव ॥
तात्पर्यम्
गुप्त भेद रखने वाले तथा बाहर भीतर के इंद्रियों के भावों के चिह्न छुपाने वाले के काम, पूर्व जन्म के संस्कार की तरह फलों से जाने जाते थे ॥१.२०॥
[दिलीप अपने मंत्रांग की आलोचनाओं को रहस्य रखता था। रागद्वेषादि मानसिक स्थितियों को (हावभावों के द्वारा प्रकटित न करके) गूढ रखता था। इस जन्म के अनुभवों के आधार पर जिसप्रकार गतजन्म के कर्म जाने जाते हैं, (अंततः) फलरूप को पाने पर ही, उसके प्रयत्नों के स्वरूप स्वभाव (अन्यों) के पल्ले पड़ते थे]

No comments:
Post a Comment