Friday, July 27, 2018

रघुवंशम्-१.९५


रघुवंशम्-१.९४


रघुवंशम्-१.९३


रघुवंशम्-१.९२


रघुवंशम्-१.९१


रघुवंशम्-१.९०


रघुवंशम्-१.८९


रघुवंशम्-१.८८


रघुवंशम्-१.८७


रघुवंशम्-१.८६


रघुवंशम्-१.८५


रघुवंशम्-१.८४


Tuesday, July 17, 2018

रघुवंशम्-१.८३


रघुवंशम्-१.८२


रघुवंशम्-१.८१


रघुवंशम्-१.८०


रघुवंशम्-१.७९


रघुवंशम्-१.७८


रघुवंशम्-१.७७


रघुवंशम्-१.७६


रघुवंशम्-१.७५


रघुवंशम्-१.७४


रघुवंशम्-१.७३


रघुवंशम्-१.७२


रघुवंशम्-१.७१


रघुवंशम्-१.७०


रघुवंशम्-१.६९


रघुवंशम्-१.६८


रघुवंशम्-१.६७


रघुवंशम्-१.६६


रघुवंशम्-१.६५


रघुवंशम्-१.६४


रघुवंशम्-१.६३


रघुवंशम्-१.६२


रघुवंशम्-१.६१


रघुवंशम्-१.६०


रघुवंशम्-१.५९


रघुवंशम्-१.५८


रघुवंशम्-१.५७


रघुवंशम्-१.५६


रघुवंशम्-१.५५


रघुवंशम्-१.५४


रघुवंशम्-१.५३


रघुवंशम्-१.५२


रघुवंशम्-१.५१


रघुवंशम्-१.५०


रघुवंशम्-१.४९


रघुवंशम्-१.४८


रघुवंशम्-१.४७


रघुवंशम्-१.४६


रघुवंशम्-१.४५


रघुवंशम्-१.४४


रघुवंशम्-१.४३


रघुवंशम्-१.४२


रघुवंशम्-१.४१


रघुवंशम्-१.४०


रघुवंशम्-१.३९


रघुवंशम्-१.३८


रघुवंशम्-१.३७


रघुवंशम्-१.३६


रघुवंशम्-१.३५


रघुवंशम्-१.३४


रघुवंशम्-१.३३


रघुवंशम्-१.३२


रघुवंशम्-१.३१


रघुवंशम्-१.३०


रघुवंशम्-१.२९


रघुवंशम्-१.२८


रघुवंशम्-१.२७

रघुवंशम्-1.27

श्लोकः
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥1.27॥

पदविभागः
न किल अनुययुः तस्य राजानः रक्षितुः यशः । व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥

अन्वयः
(अन्ये) राजानः रक्षितुः तत् यशः न अनुययुः किल यत् (यस्मात्) तस्करता परस्वेभ्यः व्यावृत्ता (सती) श्रुतौ स्थिता ॥1.27॥

वाच्यपरिवर्तनम्
(अन्यैः) राजभिः रक्षितुः तस्य यशः न अनुयये किल तस्करतया परस्वेभ्यः व्यावृत्ता (सत्या) श्रुतौ स्थितम् ॥

सरलार्थः
दिलीपसदृशः कोपि अन्यः राजा प्रजाः पालयितुं न समर्थो बभूव यतः तस्य प्रभावात् राज्ये तस्करा नैव आसन्। अस्मात् चौर्यं स्वरूपतः केनापि कदापि न दृष्टम् खपुष्पवत् नाममात्रेणैव स्थितमिति सरलार्थः ॥

तात्पर्यम्
उस (प्रजाकी) रक्षा करने वाले को यश को अन्य राजा न पहुंच सके। क्योंकि (महाराज दिलीप के पालन में) दूसरे के धन से निकली हुई चोरी नाम में अथवा कान में रही ॥१.२७॥
[चोरियाँ नहीं होती थी। “परों के धन का अपहरण किया” इस क्रिया अर्थ को खोगया, और वह शब्द - “गगनकुसुम” के समान केवल शब्द बच गया।]

रघुवंशम्-१.२६


रघुवंशम्-१.२५

रघुवंशम्-1.26
श्लोकः
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥1.26॥

पदविभागः
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । सम्पद्-विनिमयेन उभौ दधतुः भुवन-द्वयम् ॥

अन्वयः
सः यज्ञाय गां दुदोह। मघवा सस्याय दिवं (दुदोह)। (एवम्) उभौ (इन्द्रदिलीपौ) सम्पद्विनिमयेन भुवनद्वयं दधतुः ॥1.26॥

वाच्यपरिवर्तनम्
तेन यज्ञाय गौः दुदुहे, मघौना सस्याय द्यौः (दुदुहे) उभाभ्यां सम्पद्विनिमयेन भुवनद्वयं दधे ॥

सरलार्थः
लोकेश्वरः दिलीपः वसुधायाः समुपार्जितैः करैः इन्द्रलोकप्रीतिसाधनं यज्ञं कृत्वा शचीपतिं सन्तोषयामास। स्वर्गपतिः सहस्रलोचनोपि प्रीतः सन् स्वर्गात् पातितैः मेघसलिलैः वसुधायाः धान्यसम्पदं संवर्ध्य पृथ्वीपतिं सन्तोषयामास एवमिन्द्रदिलीपौ उपकारविनिमयेन मर्त्यं स्वर्गं पालयामासतुः ॥

तात्पर्यम्
उसने यज्ञ के निमित्त पृथ्वी को दुहा और इंद्र ने धान्य के निमित्त आकाश को दुहा (अर्थात् वह यज्ञ करता इंद्रजाल बरसाते) एक दूसरे को बदला देकर दोनों ने दोनों लोकों को पाला ॥१.२६॥
[दिलीप के यज्ञों के कारण देवता सन्तुष्ट होते। प्रत्युपकार में इंद्र वर्षा करके सुभिक्षता बनाए रखता।]

रघुवंशम्-१.२४

रघुवंशम्-1.24

श्लोकः
प्रजानां विनयाधानाद् रक्षणाद् भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥1.24॥

पदविभागः
प्रजानां विनय-आधानात् रक्षणात् भरणात् अपि । सः पिता पितरः तासां केवलं जन्म-हेतवः ॥

अन्वयः
विनयाधानाद् रक्षणाद् भरणाद् अपि सः प्रजानां पिता (आसीत्)। तासां (प्रजानाम्) पितरः केवलं जन्महेतवः (आसन्) ॥1.24॥

वाच्यपरिवर्तनम्
विनयाधानात् रक्षणात् भरणाद् अपि तेन प्रजानां पित्रा (अभूयत)। तासां पितृभिः जन्महेतुभिः (अभूयत) ॥

सरलार्थः
स शिक्षाप्रदानेन सर्वान् जनान् सतां मार्गे प्रवर्तयामास। भयाद् ररक्ष। जीविकाविधानेन बभार। अस्मात् स प्रजानां प्रकृतपितृ-पदवाच्यः आसीत्। तासां प्रकृतीनां पितरस्तु केवलं जन्महेतवः आसन्। सर्वेषां जनानां सर्वाणि पितॄचितकर्तव्यानि कृत्वा स सर्वलोकप्रियोऽभूत् ॥

तात्पर्यम्
वह नीति सिखलाने, रक्षा करने और पालने से प्रजाओं का पिता था। उनके माता पिता केवल जन्म देने के ही कारण थे ॥१.२४॥

रघुवंशम्-१.२३

रघुवंशम्-1.23

श्लोकः
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥1.23॥

पदविभागः
अनाकृष्टस्य विषयैः विद्यानां पार-दृश्वनः । तस्य धर्म-रतेः आसीत् वृद्धत्वं जरसा विना ॥

अन्वयः
विषयैः अनाकृष्टस्य विद्यानां पारदृश्वनः धर्मरतेः तस्य (दिलीपस्य) जरसा विना वृद्धत्वम् आसीत् ॥1.23॥

वाच्यपरिवर्तनम्
विषयैः अनाकृष्टस्य विद्यानां पारदृश्वनः धर्मरतेः तस्य (राज्ञः) जरसा विना वृद्धत्वेन अभूयत ॥

सरलार्थः
यूनोऽपि तस्य दिलीपस्य विषयवैराग्ये, वेदवेदाङ्गज्ञाने, धर्मानुष्ठाने च बुद्धेः अधिका परिणतिः जाता। युवावस्थायामपि स चतुष्पदार्थेषु अधिकतरां चतुरतां लेभे इति भावः ॥

तात्पर्यम्
उसे जिसे विषयों ने अपनी और ना खींचा, विद्याओं के पार दिखने वाले को, (पूर्णविद्यावान् को) धर्म में रुचि रखने वाले को, बिना वृद्धावस्था प्राप्त हुए बुढ़ापा हुआ ॥१.२३॥
[राजा दिलीप की आयु के अनुसार युवक था, पर वृद्धों के समान मानसिक परिणति उसमें थी।]

रघुवंशम्-१.२२

रघुवंशम्-1.22

श्लोकः
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव ॥1.22॥

पदविभागः
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघा-विपर्ययः । गुणा गुण-अनुबन्धित्वात् तस्य सप्रसवाः इव ॥

अन्वयः
तस्य ज्ञाने (सति) मौनं, शक्तौ (सत्याम्) क्षमा, त्यागे (सति) श्लाघाविपर्ययः (अत एव तस्य) गुणाः गुण अनुबन्धित्वात् सप्रसवाः इव आसन् ॥1.22॥

वाच्यपरिवर्तनम्
तस्य ज्ञाने (सति) मौनेन, शक्तौ (सत्यां) क्षमया, त्यागे (सति) श्लाघाविपर्ययेण (अभूयत) (अत एव) गुणैः सप्रसवैः इव अभूयत ॥

सरलार्थः
विद्वत्सु वाक्पटुता चपलता, प्रभुषु अक्षमा, दानशीलेषु आत्मश्लाघा प्रायेण दृश्यते, अयं तु राजा पण्डितोऽपि मितवाक्, स्वाम्यपि क्षमावान्, दानशीलोपि श्लाघाशून्यो बभूव ॥

तात्पर्यम्
ज्ञान में मौन, सामर्थ्य होने में क्षमा, दान करने में बड़ाई की इच्छा ना करना, गुणों के संबंध से उसके गुण सहोदर (साथ के जन्म) से थे ॥१.२२॥

[विद्वान् होकर भी मितभाषी था; शक्तिमान् होकर भी सहन भाव युक्त था; दानशीली था पर अपनी प्रशंसा नहीं करता था। (उसके यह) परस्परविरुद्ध गुण (ज्ञान-मितभाषिता; शक्ति-क्षमा; दानगुण-प्रशंसा में अनासक्ति) सहजन्म भाईयों  के समान रहते थे।
विद्वान् जन पांडित्य प्रदर्शन के लिए अधिक बातकरते, पराक्रमवान् उद्दंड स्वभावके होते, दानबुद्धि वाले अपने आप की  प्रशंसा करते- यह लोकरीति है। उसके विरुद्ध दिलीप की वर्तनी थी। ज्ञानं-मौनं, शक्ति-सहन, दानशीलता-आत्मस्तुति-विमुखता के जैसे विलोम गुण उसमें सहजीवन करते।)

रघुवंशम्-१.२१

रघुवंशम्-1.21

श्लोकः
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥1.21॥

पदविभागः
जुगोप आत्मानम् अत्रस्तः भेजे धर्मम् अनातुरः । अगृध्नुः आददे सः अर्थम् असक्तः सुखम् अन्वभूत् ॥

अन्वयः
सः अत्रस्तः (सन्) आत्मानं जुगोप। अनातुरः (सन्) धर्मं भेजे। अगृध्नुः (सन्) अर्थम् आददे। असक्तः (सन्) सुखम् अन्वभूत् ॥1.21॥

वाच्यपरिवर्तनम्
तेन अत्रस्तेन (सता) आत्मा जुगुपे। अनातुरेण (सता) धर्मः भेजे। अगृध्नुना (सता) अर्थः आददे, असक्तेन (सता) सुखम् अन्वभावि ॥

सरलार्थः
प्रायेण जनः भयभीत एव शरीरं रक्षति, रोगग्रस्त एव धर्मानुष्ठानं करोति, लोभान्ध एव धनाय यत्नं करोति, अत्यासक्त एव विषयान् सेवते। अयं तु दिलीपः निष्कामः कर्तव्यधिया आत्मरक्षण-धर्माचरण-धनग्रहण-सुखसेवनान्यकरोत् ॥

तात्पर्यम्
राजा निर्भय हो अपनी रक्षा करता, अरोगी हो धर्म को भजता, लोभ को त्याग धन को ग्रहण करता, आसक्ति रहित हो सुख का भोग करता था ॥१.२१॥

[भयभीत नहीं था, (फिर भी आद्यधर्म साधन है अतः) अपने देह की संरक्षा करता था। कोई दुःख या रोग नहीं था, तब भी (कर्तव्य है अतः) धर्माचरण करता था। लोभगुण नहीं था (दान करने के लिए) धन स्वीकारता था (कमाता था)। (भोगलालसा से नहीं), अनासक्त होकर सुखों का अनुभव करता था।]

रघुवंशम्-१.२०

रघुवंशम्-1.20

श्लोकः
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥1.20॥

पदविभागः
तस्य संवृत-मन्त्रस्य गूढ-आकार-इङ्गितस्य च । फल-अनुमेयाः प्रारम्भाः संस्काराः प्राक्तनाः इव ॥

अन्वयः
संवृत-मन्त्रस्य गूढाकारेङ्गितस्य च तस्य प्रारम्भाः प्राक्तनाः संस्काराः इव फलानुमेयाः बभूवुः ॥1.20॥

वाच्यपरिवर्तनम्
संवृत मन्त्रस्य गूढाकारेङ्गितस्य च तस्य प्रारंभैः प्राक्तनैः संस्कारैः इव फलानुमेयैः बभूवे ॥

सरलार्थः
यथा हि पूर्वजन्मोपार्जितं कर्म इह जन्मनि फलदर्शनेन ज्ञायते तथैव दिलीपस्य गूढमन्त्रकार्यमपि फलदर्शनेन अन्यैः जनैः अनुमीयते स्म। फलसिद्धेः प्राक् दिलीपस्य कार्यसाधनोपायान् ज्ञातुं कोपि समर्थो न बभूव ॥

तात्पर्यम्
गुप्त भेद रखने वाले तथा बाहर भीतर के इंद्रियों के भावों के चिह्न छुपाने वाले के काम, पूर्व जन्म के संस्कार की तरह फलों से जाने जाते थे ॥१.२०॥

[दिलीप अपने मंत्रांग की आलोचनाओं को रहस्य रखता था। रागद्वेषादि मानसिक स्थितियों को (हावभावों के द्वारा प्रकटित न करके) गूढ रखता था। इस जन्म के अनुभवों के आधार पर जिसप्रकार गतजन्म के कर्म जाने जाते हैं, (अंततः) फलरूप को पाने पर ही, उसके प्रयत्नों के स्वरूप स्वभाव (अन्यों) के पल्ले पड़ते थे]

रघुवंशम्-१.१९

रघुवंशम्-1.19

श्लोकः
सेनापरिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥1.19॥

पदविभागः
सेना-परिच्छदः तस्य द्वयम् एव अर्थ-साधनम् । शास्त्रेषु अकुण्ठिता बुद्धिः मौर्वी धनुषि च आतता ॥

अन्वयः
तस्य सेना परिच्छदः (आसीत्)। शास्त्रेषु अकुंठिता बुद्धिः, धनुषि आतता मौर्वी च- (एतत्) द्वयम् एव अर्थसाधनम् (बभूव) ॥1.19॥

वाच्यपरिवर्तनम्
तस्य सेना परिच्छदेन अभूयत शास्त्रेषु अकुंठितया बुद्ध्या धनुषि आततया मौर्व्या च द्वयेन एव अर्थसाधनेन (अभूयत) ॥

सरलार्थः
नृपेण छत्रचामरादिवत् सैन्यमपि अवश्यमेव रक्षणीयमिति सचतुरंगिणीं सेनां रक्षितवान्। शत्रुपराजयराज्यपालनादिकं तु संपूर्णं स्वेनैव पराक्रमेण अकरोत्। (स्वयंसमर्थस्य दिलीपस्य क्वचिदपि कार्ये अन्यपुरुषस्यापेक्षा नासीदिति भावः।) ॥

तात्पर्यम्
सेना से जुड़े हुए उसके प्रजा प्रयोजन के साधन दो ही थे। शास्त्र में तीक्ष्ण बुद्धि और धनुष में चढ़ी हुई प्रत्यंचा (रोदा) ॥१.१९॥

रघुवंशम्-१.१८

रघुवंशम्-1.18

श्लोकः
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥1.18॥

पदविभागः
प्रजानाम् एव भूति-अर्थं सः ताभ्यः बलिम् अग्रहीत् । सहस्र-गुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः ॥

अन्वयः
सः प्रजानाम् एव भूत्यर्थं ताभ्यः (प्रजाभ्यः) बलिं अग्रहीत् हि (यतः) रविः सहस्रगुणम् (यथा तथा) उत्स्रष्टुं रसम् आदत्ते ॥1.18॥

वाच्यपरिवर्तनम्
तेन प्रजानाम् एव भूत्यर्थं ताभ्यः बलिः अग्राहि हि। रविणा सहस्रगुणम् उत्स्रष्टुं रसः आदीयते ॥

सरलार्थः
यथा रविः स्वकिरणैः धराया रसं गृह्णाति समये च पुनः सहस्रगुणं जलं दत्त्वा वसुधाया धान्यसम्पदं वर्धयति, तथा स दिलीपोऽपि प्रकृतिभ्यः करं गृह्णाति स्म समये तत्सहस्रगुणं सुखं दत्त्वा प्रकृतीनां सत्त्वान् वर्धयति स्म (स परिमितं करं गृह्णाति स्म प्रजानां सुखसाधनमपरिमितमासीत्।) ॥

तात्पर्यम्
प्रजाओं के कल्याण करने के निमित्त को भी उनसे उसने कर लिया। जैसे सूर्य संसार हज़ार गुणा बरसाने ही को (पृथ्वी से) जल लेता है ॥१.१८॥

रघुवंशम्-१.१७

रघुवंशम्-1.17

श्लोकः
रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥1.17॥

पदविभागः
रेखा-मात्रम् अपि क्षुण्णाद् आमनोः-वर्त्मनः परम् । न व्यतीयुः प्रजाः तस्य नियन्तुः नेमि-वृत्तयः ॥

अन्वयः
नियन्तुः तस्य नेमिवृत्तयः प्रजाः आमनोः क्षुण्णात् वर्त्मनः परं रेखामात्रम् अपि च व्यतीयुः ॥1.17॥

वाच्यपरिवर्तनम्
नियन्तुः तस्य नेमिवृत्तिभिः प्रजाभिः आमनोः क्षुण्णात् वर्त्मनः परं रेखामात्रमपि न व्यतीये ॥

सरलार्थः
यथा हि सारथेः कौशलेन रयस्य पश्चाद्वर्तिन्यः चक्रधाराः अग्रे वर्तनीभिः चक्रधाराभिः महतः पथः इतस्ततः रेखामात्रमपि नैव अतिक्रामन्ति तथा दिलीपस्य प्रजापालनकौशलेन सर्वाः प्रजाः पूर्वजनैः अभ्यस्ताः मनुकथितात् मार्गात् इतस्ततः रेखामात्रमपि न व्यतीयुः। (सर्वे ब्राह्मणक्षत्रियशूद्रादयः स्वस्वधर्मे सर्वथा आरूढा आसन् इति भावः) ॥

तात्पर्यम्
उच्च शिक्षा करनेवाले की प्रजा मनु के मार्ग अभ्यास की हुई रथ के पहिए की भांति चलने वाली रेखा मात्र भी बाहर नहीं गई ॥१.१७॥

रघुवंशम्-१.१६

रघुवंशम्-1.16

श्लोकः
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥1.16॥

पदविभागः
भीम-कान्तैः नृप-गुणैः सः बभूव उपजीविनाम् । अधृष्यः च अभिगम्यः च यादः-रत्नैः इव अर्णवः ॥

अन्वयः
सः यादोरत्नैः अर्णव इव भीमकान्तैः नृपगुणैः उपजीविनाम् अधृष्येण अभिगम्येन च बभूव ॥1.16॥

वाच्यपरिवर्तनम्
यादोरत्नैः अर्णवेन इव भीमका भीमकान्तैः नृपगुणैः उपजीविनाम् अधृष्येण अभिगम्येन च बभूवे ॥

सरलार्थः
यथा सागरः परममनोहरैः मुक्तादिभिः जनानामाश्रयणीयो भवति भयङ्करैस्तिमिमकरादिभिश्च दुर्गमनीयो भवति तथैव सोऽपि नृपतिः जनमनोहरैः करुणाचतुरतादिभिः प्रजानामाश्रयणीयः दुस्सहैः तेजःप्रतापादिभिश्च तासामतिगहनो बभूव। (स राजा जलधिवत् अतिगम्भीरसत्त्वः मुक्ता इव सज्जनानां प्रियदर्शनः मत्स्यादिरिव क्रूरपुरुषाणां भीमदर्शनश्चासीदिति भावः) ॥

तात्पर्यम्
वह भयंकर और मनोहर राजगुणों से कर्मचारियों (सेवकादि) को दूर रखने वाला और धीरे बुलाने वाला भी हुआ जैसे (नाके आदि) जंतुओं से और रत्नों से समुद्र। [अर्थात् समुद्र में मगरमच्छ आदि को डर से कोई नहीं घुस सकता और रत्नों के लालच में घुसते भी हैं, ऐसे ही राजा के पास जाने से लोग डरते भी थे और जाते भी थे।] ॥१.१६॥

(राजा केवल दया व दाक्षिण्य भाव को प्रदर्शित करेगा, तो सेवकों व आश्रितों को गौरव नहीं बचेगा। यदि अतिकठिन, दुर्निरीक्ष्य रहेगा तो उनके अनुराग, भक्ति, विधेयता को खोदेगा। समतलता को बनाएरखकर ही गौरव व सद्भाव  का पात्र बनेगा। [यादः – समुद्र जंतु]

रघुवंशम्-१.१५

रघुवंशम्-1.15

श्लोकः
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥1.15॥

पदविभागः
आकार-सदृश-प्रज्ञः प्रज्ञया सदृश-आगमः । आगमैः सदृश-आरम्भः आरम्भ-सदृश-उदयः ॥

अन्वयः
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः आगमैः सदृशारम्भः आरम्भसदृशोदयः (च) ॥1.15॥

वाच्यपरिवर्तनम्
आकारसदृशप्रज्ञेन प्रज्ञया सदृशागमेन आगमैः सदृशारंभेण आरंभसदृशोदयेन (तेन अभूयत) ॥

सरलार्थः
तस्य आकृतिः महती, धीरपि महती, विद्यापि महती, क्रियापि महती, कार्यसिद्धिरपि महती, एव सर्वप्रकारेण तस्मिन् भूपतौ महत्त्वं स्थितम्। सर्वमाहात्म्यसागर इति भावः ॥

तात्पर्यम्
सूरत की समान बुद्धि वाला, बुद्धि के समान शास्त्र का अभ्यास करने वाला, शास्त्र अभ्यास के समान प्रयोग करने वाला, आरंभ की समान उदय वाला ॥१.१५॥

रघुवंशम्-१.१४

रघुवंशम्-1.14

श्लोकः
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥1.14॥

पदविभागः
सर्व-अतिरिक्त-सारेण सर्व-तेज-अभिभाविना । स्थितः सर्व-उन्नतेन-उर्वीं क्रान्त्वा मेरुः इव आत्मना ॥

अन्वयः
(पुनः किंभूतः सः?) सर्वातिरिक्तसारेण सर्वतेजोभिभाविना सर्वोन्नतेन आत्मना मेरुः इव उर्वीं क्रान्त्वा स्थितः ॥1.14॥

वाच्यपरिवर्तनम्
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना सर्वोन्नतेन आत्मना उर्वीं क्रान्त्वा मेरुणा इव (तेन) स्थितम् ॥

सरलार्थः
सुमेरुः यथा निजस्थिरांशेन सर्वान् सङ्घातकठिनान् पदार्थान् परिभवति, कान्त्या च सर्वान् ज्वलितपदार्थान् तिरस्करोति, औन्नत्येन सर्वान् उन्नतपदार्थान् निराकरोति, आयतत्वेन सम्पूर्णां वसुधां व्याप्यस्य सुतिष्ठति तथा सोऽपि दिलीपः विक्रमेण शूरान्, तेजसा तेजस्विनः देहमनसोः औन्नत्येन महापुरुषान् बलेन धरां समाक्रम्य तस्थौ ॥

तात्पर्यम्
सबसे अधिक बलवान सबसे अधिक तेजस्वी सबसे ऊंचे शरीर से पृथ्वी को दबाकर सुमेरु की नाईं आक्रमण कर बैठा ॥१.१४॥

रघुवंशम्-१.१३

रघुवंशम्-1.13

श्लोकः
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥1.13॥

पदविभागः
व्यूढ-उरस्कः वृष-स्कन्धः शाल-प्रांशुः महा-भुजः । आत्म-कर्म-क्षमं देहं क्षात्रः धर्म इव आश्रितः ॥

अन्वयः
(कथं भूतः दिलीपः?) व्यूढोरस्कः, वृषस्कन्धः, शालप्रांशुः, महाभुजः। (अस्माद् एव) आत्मकर्मक्षमं देहम् आश्रितः क्षात्रः धर्म इव स्थितः ॥1.13॥

वाच्यपरिवर्तनम्
व्यूढोरस्केन वृषस्कन्धेन शालप्रांशुना महाभुजेन आत्मकर्मक्षमं देहम् आश्रितेन (तेन) क्षात्रेण धर्मेण इव स्थितम् ॥

सरलार्थः
तस्य नृपस्य शरीरोत्कर्षः लोकोत्तरः आसीत्। सः सर्वजगद्रक्षणक्षमां मानुषीं तनुं परिगृह्य अवस्थितः प्रत्यक्षं क्षत्रियधर्म इव दिदीपे। वीरधर्म एवायं दिलीपस्य रूपं कृत्वा वर्तते इति भावः ॥

तात्पर्यम्
बड़ी चौड़ी छाती वाला, बैलकेसे (ऊँचे) कंधों वाला, शाल के समान लंबी बड़ी बाहों वाला, अपने कार्य में समर्थ, मानो क्षत्रियों का धर्म देह धारण किए हुए है ॥१.१३॥
अपने कार्यों के अनुरूप देह को आश्रत किए हुए क्षात्रधर्मं के समान (मूर्तीभवित क्षात्रधर्मं के समान) था।

रघुवंशम्-१.१२

रघुवंशम्-1.12

श्लोकः
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥1.12॥

श्लोकः
तद् अन्वये शुद्धि-मति प्रसूतः शुद्धिमत्-तरः । दिलीप इति राज-इन्दुः इन्दुः क्षीर-निधौ इव ॥

अन्वयः
शुद्धिमति तत् अन्वये शुद्धिमत्-तरः दिलीपः इति राज-इन्दुः क्षीर-निधौ इन्दुः इव प्रसूतः ॥1.12॥

वाच्यपरिवर्तनम्
शुद्धिमति तदन्वये शुद्धिमत्तरेण राजेन्दुना दिलीपेन क्षीरनिधौ इन्दुना इव प्रसूतम् ॥

सरलार्थः
यथा हि उज्ज्वले क्षीरसागरे लोकसुखदायकश्चन्द्रो जातः तथा पवित्रे वैवस्वतवंशे अतिपवित्रः जगदानन्दकर्ता दिलीपनामा नृपश्रेष्ठो जातः ॥

तात्पर्यम्
उसके पवित्र वंश में दिलीप नाम अति पवित्र राजेंद्र ने जन्म लिया जैसे क्षीर सागर में से चंद्रमा ने ॥१.१२॥

रघुवंशम्-१.११

रघुवंशम्-1.11

श्लोकः
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥1.11॥

पदविभागः
वैवस्वतः मनुः नाम माननीयः मनीषिणाम् । आसीत् मही-क्षिताम् आद्यः प्रणवः छन्दसाम् इव ॥

अन्वयः
मनीषिणां माननीयः वैवस्वतः नाम मनुः छन्दसां प्रणव इव महीक्षिताम् आद्यः आसीत् ॥1.11॥

वाच्यपरिवर्तनम्
मनीषिणां माननीयेन वैवस्वतेन नाम्ना मनुना - छंदसां प्रणवेन इव - महीक्षिताम् आद्येन अभूयत ॥

सरलार्थः
ओंकारो यथा सर्वैः विद्वद्भिः पूज्यते सर्ववेदानामग्रे कथ्यते तथैव वसुधायां नृपवंशस्य प्रवर्तयिता स श्रीमान् वैवस्वतो मनुरेवास्य सुमहतो रघुवंशस्य प्रथमः पुरुष आसीत् ॥

तात्पर्यम्
वैवस्वत नाम मनु विद्वानों का पूज्यनीय राजाओं में प्रथम हुआ, जैसे छंदों में ओंकार ॥१.११॥

रघुवंशम्-१.१०

रघुवंशम्-1.10

श्लोकः
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥1.10॥

पदविभागः
तं सन्तः श्रोतुम् अर्हन्ति सद्-असद्-व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिका अपि वा ॥

अन्वयः
सदसद्व्यक्ति-हेतवः सन्तः तं श्रोतुम् अर्हन्ति हि (यतः) हेम्नः विशुद्धिः वा श्यामिका अपि अग्नौ संलक्ष्यते ॥1.10॥

वाच्यपरिवर्तनम्
सदसद्व्यक्तिहेतुभिः सद्भिः स श्रोतुं अर्हते। हि हेम्नः विशुद्धि वा श्यामिकाम् अपि अग्नौ (जनाः) संलक्षयन्ति ॥

सरलार्थः
यथा हि सुवर्णस्योत्कृष्टता वह्नितापेन निर्णीयते तथा काव्यस्य गुणो दोषो वा सहृदयानां पण्डितानां विचारेणैव निर्णीयते। अत एव मदीयं काव्यमिदं सहृदयैः सद्भिरेव श्रोतव्यम्। हेमतुल्यं काव्यं वह्नितुल्ये सहृदयहृदये परीक्षणीयम् ॥

तात्पर्यम्
उस वंश को सुनने को सत्य असत्य का निर्णय करने वाले संत ही योग्य है। सोने की पवित्रता और कलौंच अग्नि ही में देखी जाती है ॥१.१०॥
इन दस श्लोकों के अवतारिका के बाद कथा का प्रारंभ!

रघुवंशम्-१.९

रघुवंशम्-1.9

श्लोकः
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रणोदितः ॥1.9॥

पदविभागः
रघूणाम् अन्वयं वक्ष्ये तनु-वाक्-विभवः अपि सन् । तद्-गुणैः कर्णम् आगत्य चापलाय प्रणोदितः ॥

अन्वयः
तनुवाग्विभवः सन् अपि तद्गुणैः कर्णम् आगत्य चापलाय प्रणोदितः (अहम्) सन् रघूणाम् अन्वयं वक्ष्ये ॥1.9॥

वाच्यपरिवर्तनम्
तद्-गुणैः कर्णम् आगत्य तनुवाग्विभवेन सता अपि सता चापलाय प्रणोदितेन (मया) रघूणाम् अन्वयः वक्ष्यते ॥

सरलार्थः
अहमल्पवाणी-सम्पत्तिः सन् तेषां रघूणां गुणैः कर्णे प्राप्य धार्ष्ट्याय प्रेरितः रघुवंशचरित्रं वक्ष्ये ॥

तात्पर्यम्
इस प्रकार के रघुवंशियों का वंश वाणी का प्रताप थोड़ा होने से भी कान में प्राप्त हुए उनके गुणों से सफलता की ओर प्रेरणा किया हुआ मैं वर्णन करता हूँ ॥१.९॥
[मेरी वाक्संपत् बहुत अल्प है। फिर भी रघुवंशमें जन्मिलेने वाले राजाओं के गुणों को सुनना मुझ में चापल्य भाव को जगाने वाले कारण से रघुवंश चरित्र को कहने वाला हूँ।
इस श्लोक के अन्त में “प्रणोदितः” है। “प्रचोदितः” यह पाठांतर है।)
पाँचवे श्लोक से नौवे श्लोक तक मिलाकर कहे तो –
“रघुवंश के राजा कैसे हैं? जन्मतः विशुद्धवर्तन वाले। ध्येयनिष्ठा से युक्त। सागरपर्यंत भूपाल हैं। इंद्र की सहाय करने के लिए स्वर्ग तक अपने रथों को दौड़ाते थे।
“नियतपद्धति में होम करने वाले। महादाता हैं। न्यायानुरूप दोषों को दंडित करने वाले हैं। प्रतिदिन, काल को अतिक्रमण न करके अपने कर्तव्यों को जागरूकता से निर्वहण करने वाले।
“दान करने के लिए धनों को आर्जित करने वाले। सत्य बोलने के लिए मितभाषण करने वाले। कीर्ति के लिए युद्धों में विजय कामना करने वाले। संतान के लिए गृहस्थाश्रम को स्वीकृत करने वाले।
“विद्याभ्यास में बाल्य काल को, कामनाओं को पूर्ण करने के लिए यौवन को, वानप्रस्थ में वृद्धावस्था को व्यतीत करके योगमार्ग में शरीर को त्यागने वाले।
“मेरी वाक्शक्ति सीमित है, फिर भी, उनके सद्गुणों के बारे में (नित्य) रहने के कारण मुझमें जागृत हुए वाक्चापल्य के कारण मैं इस रघुवंश काव्य की रचना को तैयार हुआ हूँ।”

रघुवंशम्-१.८

रघुवंशम्-1.8

श्लोकः
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥1.8॥

पदविभागः
शैशवे अभ्यस्त-विद्यानां यौवने विषय-एषिणाम् । वार्धके मुनि-वृत्तीनां योगेन अन्ते तनु-त्यजाम् ॥

अन्वयः
शैशवे अभ्यस्तविद्यानाम् यौवने विषयैषिणाम् वार्धके मुनिवृत्तीनां अन्ते योगेन तनुत्यजाम्... ॥1.8॥

सरलार्थः
ये बाल्यावस्थायां सर्वा विद्याः अधीतवन्तः तादृशानाम्, विद्याश्च चतुर्दश यथाह मनुः ‘अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश'। ये युवावस्थायां धर्मानुसारेण भोग्यसुखं सेवितवन्तः तादृशानाम्, वृद्धवयसि सर्वभोगनिवृत्ताः ऋषिव्रतमाश्रितवन्तः तादृशानाम्, अन्तकाले योगमार्गेण देहं त्यक्त्वा मुक्तिं लब्धवन्तः तादृशानाम्…
क्रमेणोदाहरणानि: तृतीयसर्गे 28-29 श्लोकौ, प्रथमसर्गे 21 श्लोकः, तृतीयसर्गे 70 श्लोकः, अष्टमसर्गे 24 श्लोकः ॥

तात्पर्यम्
लड़कपन में विद्या पढ़ने वालों का, उनका युवा अवस्था में भोग की इच्छा करने वालों का, बुढ़ापे में मुनि वृत्ति होने वालों का, अंत में योग द्वारा शरीर त्याग करने वालों का ॥१.८॥
[बाल्य काल में विद्याओं का अभ्यास करके, यौवन काल में (धर्मबद्ध होकर) अपने कामनाओं को पूर्ण करके, वृद्धावस्था में मुनिवृत्ति को अवलंबित करके, अवसान दशा में योगमार्ग में देह को छोड़ने वाले (ऐसे रघुवंशीयों का..)
“छे वेदांग, चार वेद, मीमांसा, न्यायशास्त्र, पुराण, धर्मशास्त्र” यह चौदह प्रकार के विद्याओं को मनु ने बताया। यह सरलार्थ में बताया गया]

रघुवंशम्-१.७

रघुवंशम्-1.7

श्लोकः
त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥1.7॥

पदविभागः
त्यागाय सम्भृत-अर्थानां सत्याय मित-भाषिणां यशसे विजिगीषूणां प्रजायै गृह-मेधिनाम् ॥

अन्वयः
त्यागाय सम्भृतार्थानां सत्याय मितभाषिणां यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्… ॥1.7॥

सरलार्थः
ये सत्पात्रेभ्यो दातुमेवार्थ-सञ्चयं कृतवन्तः तादृशानाम्। बहुभाषणे अनृतमपि स्यादिति हेतोर्मितमेव भाषन्ते स्म तादृशानाम्। ये धर्मविजयेन पुण्ययशोलाभाय दिग्विजयं कृतवन्तः तादृशानाम्। ये सुतार्थमेव स्त्रीपरिणयं कृतवन्तः तादृशानाम्..। क्रमेणोदाहरणानि– चतुर्थसर्गे षडशीतितम श्लोकः (86वदि), द्वादशसर्गे सत्याय प्राणांस्त्यजता नृपदशरथेन सत्यस्य पराकाष्ठा दर्शिता। चतुर्थसर्गे त्रिचत्वारिंशत्तम श्लोकः (43वदि)। प्रथमसर्गे त्रिचत्वारिंशत्तम श्लोकः (43वदि) ॥

तात्पर्यम्
दान करने के वास्ते धन इकट्ठा करने वालों का, सत्य बोलने के निमित्त थोड़ा बोलने वालों का, कीर्ति के निमित्त जीत चाहने वालों का, पुत्र के वास्ते विवाह करने वालों का.. ॥१.७॥
[(लोभबुद्धि से नहीं) त्याग (दान) करने के लिए धन को इकट्ठा करने वाले (अधिक बोलने पर उन के द्वारा असत्य बोलने की स्थिति आसकती है इस जागरूकता से) सत्य के लिए मित भाषण करने वाले, (राज्यकांक्षा से नहीं) कीर्ति के लिए ही (समरों में) विजय को चाहने वाले, (कामभाव के लिए नहीं, पितॄण को चुकाने के लिए) संतान के लिए गृहस्थ बनने वाले (ऐसे रघुवंशियों के…)]

रघुवंशम्-१.६

रघुवंशम्-1.6

श्लोकः
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥1.6॥

पदविभागः
यथाविधि-हुत-अग्नीनां यथाकाम-अर्चित-अर्थिनाम् । यथा-अपराध-दण्डानां यथा-काल-प्रबोधिनाम् ॥

अन्वयः
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् यथापराधदण्डानां यथाकाल-प्रबोधिनाम्… ॥1.6॥

सरलार्थः
ये सायं प्रातः गार्हपत्याहवनीय-दक्षिणानामकेषु अग्निषु वेदानुसारेण होमं कृतवन्तः तादृशानां, येऽभिलषित-वस्तुदानेनार्थिनः सत्कृतवन्तः तादृशानां, ये दण्डार्हेषु अपराधानुरूपं न्याय्यं दण्डं प्रणीतवन्तः तादृशानां, ये ब्राह्मे मुहूर्ते शयनादुत्थाय सर्वाणि कर्माणि क्रमानुसारेण सम्पादितवन्तः तादृशानाम्… क्रमेणोदाहरणानि पंचमसर्गे पंचादशम श्लोकः (15व श्लोकं), एकादशसर्गे द्वितीयश्लोकः, चतुर्थसर्गे अष्टम श्लोकः। प्रथमसर्गे पंचनवतितमः श्लोकः (95व श्लोकं) ॥

तात्पर्यम्
विधिपूर्वक अग्नि में आहुति देने वाले वालों का, कामना अनुसार याचकों को (द्रव्यादि से) पूजन करने वालों का, अपराध के अनुसार दंड देने वालों का, उचित समय उषाकाल में जागने वालों का.. ॥१.६॥

[हर शाम, सुबह वेदानुसार गार्हपत्य, आहवनीय, दक्षिणा - इन नामों वाले तीन अग्नियों (त्रेताग्नियों को) समिधों के द्वारा होम करते थे, इच्छित वस्तुओं को देकर अर्थियों को सत्कार करते थे, (दोषियों के) अपराधों को न्यायपूर्वक दंड विहित करते थे, ब्राह्मी मुहूर्त में निद्रा से जागते थे (ऐसे रघुवंशियों के..)]

रघुवंशम्-१.५

रघुवंशम्-1.5

श्लोकः
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥1.5॥

पदविभागः
सः अहम् आजन्म-शुद्धानाम् अफल-उदयकर्मणाम् । आसमुद्र-क्षिति-ईशानाम् आनाक-रथ-वर्त्मनाम् ॥

अन्वयः
सः अहम् (तनुवाग्विभवः अपि तद्गुणैः कर्णं आगत्य चापलाय प्रणोदितः सन्) आजन्मशुद्धानां आफलोदय-कर्मणाम् आसमुद्र-क्षितीशानाम् आनाक-रथवर्त्मनाम्… ॥1.5॥

वाच्यपरिवर्तनम्
तेन मया तनुवाग्विभवेन प्रचोदितेन सता… अन्वयः वक्ष्यते ॥

सरलार्थः
यद्यपि मे रचनाशक्तिः अल्पविषयग्राहिणी तथाप्यहं रघुकुलोद्भवानां राज्ञामलौकिकीं गुणमालामवगम्य दुष्करोपि विषये प्रवृत्तोस्मि। कीदृशानां रघुवंशोद्भव-नृपाणां गुणकथने बद्धपरिकरोऽस्मि? जन्मनः आरभ्य शुद्धचरित्राणाम्, यावत् प्रारब्धकर्मणः फलसिद्धिं न दृष्टवंतः तावत् तस्मात् विरता नैव बभूवुः तादृशानां रघूणाम्, ये भुजबलेन समुद्रवलय-वेष्टितस्य धरामंडलस्येश्वरा आसन्। येषां रथस्य गतिः सुरलोकेऽपि अव्याहता आसीत् तादृशानाम्। उदाहरणानि क्रमेण- तृतीयसर्गे दशमः, अष्टमे द्वाविंशः, प्रथमसर्गे त्रिंशतिशः, पंचमसर्गे सप्तविंशतिशः च श्लोकाः ॥

तात्पर्यम्
सो मैं जन्म से लेकर शुद्धोंका, फलके प्राप्त होने तक कर्म के करने वालों का, समुद्र तक पृथ्वी के अधिकारियों का स्वर्ग तक रथ के मार्ग वालों का.. ॥१.५॥

कुछ विस्तार से-- 

इस सर्ग में पाँचवे श्लोक से आठवे श्लोक तक रघुवंशस्थों का गुणगान किया गया। “ऐसा मैं…” से प्रारंभ होकर यह वाक्यं नववे श्लोक में पूरी होती है।
सोऽहम्… कः? (“ऐसा मैं” माने कौन?)
“तनुवाग्विभवोपि सन्… तद्गुणैः कर्णमागत्य चापलाय प्रणोदितः” (यह नववे श्लोक का दूसरा पाद है; स्थूलानुवाद-- अल्प वाग्वैभव से युक्त हूँ मैं, फिर भी, रघुवंशी राजाओं का गुणप्रशस्ति को सुनने के कारण उस कथा को कहने का चापल्य से युक्त हुआ हूँ।).

एक और विषय – इन श्लोकों में रघुकुल प्रभुओं को उद्दिष्ट करके जिन विशेषणों के निदर्शन आदे के कथाओं में आयेंगे। उनका प्रस्ताव “सरलार्थ” में देखसकते हैं.

Monday, July 16, 2018

रघुवंशम्-१.४

श्लोकः
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥1.4॥

पदविभागः
अथ वा कृत-वाक्-द्वारे वंशे अस्मिन् पूर्व-सूरिभिः । मणौ वज्र-समुत्कीर्णे सूत्रस्य इव अस्ति मे गतिः ॥

अन्वयः
अथ वा पूर्वसूरिभिः कृतवाग्द्वारे अस्मिन् वंशे, वज्रसमुत्कीर्णे मणौ सूत्रस्य इव मे गतिः अस्ति ॥1.4॥

वाच्यपरिवर्तनम्
अथ वा पूर्वसूरिभिः कृतवाग्द्वारे अस्मिन् वंशे, वज्रसमुत्कीर्णे मणौ सूत्रस्य इव मे गत्या भूयते ॥

सरलार्थः
यथा अतिकोमलमपि सूत्रं हीरकसूचीकृतेन छिद्रमार्गेण कठिनेऽपि मणौ विशति तथा हीनापि मे बुद्धिः वाल्मीकिकविकृतेन रामायणाख्य-काव्यद्वारेणातिदुर्गमेऽपि रघुवंशे प्रवेक्ष्यति। पूर्वकवीनां रामायणादिप्रबन्ध-साहाय्येनाहं दुर्वचनेऽपि रघुवंशवर्णने समर्थः स्यामिति भावः ॥

तात्पर्यम्
अथवा पहले पंडितों के वाग् द्वारा (वचन रूपी दरवाजा) किए हुए इस रघुवंश में मेरी गति हीरे से छेदन की हुई मणि में डोरी की समान है ॥१.४॥

रघुवंशम्-१.३

श्लोकः
मन्दः कवियशःप्रार्थी गमिष्याम्यपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥1.3

पदविभागः
मन्दः कवि-यशः-प्रार्थी गमिष्यामि अपहास्यताम् । प्रांशु-लभ्ये फले लोभात् उद्बाहुः इव वामनः ॥

अन्वयः
मन्दः (तथापि) कवियशःप्रार्थी (सन् अहं) प्रांशुलभ्ये फले लोभाद् उद्बाहुः वामनः इव अपहास्यतां गमिष्यामि. ॥1.3

वाच्यपरिवर्तनम्
मन्देन कवियशःप्रार्थिना (मया) प्रांशुलभ्ये फले लोभेन उद्बाहुना वामनेन इव अपहास्यता गंस्यते

सरलार्थः
उन्नतपुरुषलभ्यं फलं ग्रहीतुम् उच्छ्रितहस्तस्य खर्वस्य चेष्टा यथा अपहसनीया भवति तथैव महाकविलभ्यां कीर्तिं लब्धुं प्रवृत्तस्य हीनबुद्धेः ममापि चेष्टा अपहसनीया भविष्यति. (अहो मे मूढता यदहमसमर्थोऽपि महाकाव्यविरचने प्रवृत्तः.)

तात्पर्यम्
कवीश्वरों के यश का चाहने वाला मैं क्षुद्रबुद्धि हंसी को प्राप्त हूंगा। जैसे लंबे पुरुष के हाथ लगने योग्य फल की और लोभ से ऊंची बाहें उठाने वाला बौना ॥१.३॥

रघुवंशम्-१.२

श्लोकः
क्व सूर्यप्रभवो वंशः क्व चाल्पविषयामतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनाऽस्मि सागरम् ॥1.2॥

पदविभागः
क्व सूर्य-प्रभवः वंशः क्व च अल्प-विषया-मतिः । तितीर्षुः दुस्तरं मोहात् उडुपेन अस्मि सागरम् ॥

अन्वयः
सूर्यप्रभवः वंशः क्व, अल्पविषया (मम) मतिः च क्व? (अहं) मोहाद् उडुपेन दुस्तरं सागरं तितीर्षुः अस्मि ॥1.2॥

वाच्यपरिवर्तनम्
सूर्यप्रभवेण वंशेन क्व (भूयते) अल्पविषयया (मम) मत्या च क्व (भूयते) मया तितीर्षुणा भूयते ॥

सरलार्थः
यथा हि कश्चित् मंदधीः लघुतृणादिनिर्मितस्य प्लवस्य साहाय्येन महासागरतरणे प्रवर्तते तथैव मंदबुद्धिरहमपि क्षुद्राशयग्राहिणो निजज्ञानस्य साहाय्येन सुविस्तृतसूर्यकुलवर्णने प्रवृत्तोस्मि ॥

तात्पर्यम्
कहां तो सूर्य से उत्पन्न हुआ वंश और कहां थोड़े बुद्धि व्यवहार वाला मैं? मूर्खता से कठिनता से करने योग्य समुद्र को उसकी नाव के सहारे उतरना चाहता हूँ ॥१.२॥