Tuesday, July 17, 2018

रघुवंशम्-१.११

रघुवंशम्-1.11

श्लोकः
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥1.11॥

पदविभागः
वैवस्वतः मनुः नाम माननीयः मनीषिणाम् । आसीत् मही-क्षिताम् आद्यः प्रणवः छन्दसाम् इव ॥

अन्वयः
मनीषिणां माननीयः वैवस्वतः नाम मनुः छन्दसां प्रणव इव महीक्षिताम् आद्यः आसीत् ॥1.11॥

वाच्यपरिवर्तनम्
मनीषिणां माननीयेन वैवस्वतेन नाम्ना मनुना - छंदसां प्रणवेन इव - महीक्षिताम् आद्येन अभूयत ॥

सरलार्थः
ओंकारो यथा सर्वैः विद्वद्भिः पूज्यते सर्ववेदानामग्रे कथ्यते तथैव वसुधायां नृपवंशस्य प्रवर्तयिता स श्रीमान् वैवस्वतो मनुरेवास्य सुमहतो रघुवंशस्य प्रथमः पुरुष आसीत् ॥

तात्पर्यम्
वैवस्वत नाम मनु विद्वानों का पूज्यनीय राजाओं में प्रथम हुआ, जैसे छंदों में ओंकार ॥१.११॥

No comments:

Post a Comment