Tuesday, July 17, 2018

रघुवंशम्-१.१५

रघुवंशम्-1.15

श्लोकः
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥1.15॥

पदविभागः
आकार-सदृश-प्रज्ञः प्रज्ञया सदृश-आगमः । आगमैः सदृश-आरम्भः आरम्भ-सदृश-उदयः ॥

अन्वयः
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः आगमैः सदृशारम्भः आरम्भसदृशोदयः (च) ॥1.15॥

वाच्यपरिवर्तनम्
आकारसदृशप्रज्ञेन प्रज्ञया सदृशागमेन आगमैः सदृशारंभेण आरंभसदृशोदयेन (तेन अभूयत) ॥

सरलार्थः
तस्य आकृतिः महती, धीरपि महती, विद्यापि महती, क्रियापि महती, कार्यसिद्धिरपि महती, एव सर्वप्रकारेण तस्मिन् भूपतौ महत्त्वं स्थितम्। सर्वमाहात्म्यसागर इति भावः ॥

तात्पर्यम्
सूरत की समान बुद्धि वाला, बुद्धि के समान शास्त्र का अभ्यास करने वाला, शास्त्र अभ्यास के समान प्रयोग करने वाला, आरंभ की समान उदय वाला ॥१.१५॥

No comments:

Post a Comment