Tuesday, July 17, 2018

रघुवंशम्-१.१२

रघुवंशम्-1.12

श्लोकः
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥1.12॥

श्लोकः
तद् अन्वये शुद्धि-मति प्रसूतः शुद्धिमत्-तरः । दिलीप इति राज-इन्दुः इन्दुः क्षीर-निधौ इव ॥

अन्वयः
शुद्धिमति तत् अन्वये शुद्धिमत्-तरः दिलीपः इति राज-इन्दुः क्षीर-निधौ इन्दुः इव प्रसूतः ॥1.12॥

वाच्यपरिवर्तनम्
शुद्धिमति तदन्वये शुद्धिमत्तरेण राजेन्दुना दिलीपेन क्षीरनिधौ इन्दुना इव प्रसूतम् ॥

सरलार्थः
यथा हि उज्ज्वले क्षीरसागरे लोकसुखदायकश्चन्द्रो जातः तथा पवित्रे वैवस्वतवंशे अतिपवित्रः जगदानन्दकर्ता दिलीपनामा नृपश्रेष्ठो जातः ॥

तात्पर्यम्
उसके पवित्र वंश में दिलीप नाम अति पवित्र राजेंद्र ने जन्म लिया जैसे क्षीर सागर में से चंद्रमा ने ॥१.१२॥

No comments:

Post a Comment