Monday, July 16, 2018

रघुवंशम्-१.२

श्लोकः
क्व सूर्यप्रभवो वंशः क्व चाल्पविषयामतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनाऽस्मि सागरम् ॥1.2॥

पदविभागः
क्व सूर्य-प्रभवः वंशः क्व च अल्प-विषया-मतिः । तितीर्षुः दुस्तरं मोहात् उडुपेन अस्मि सागरम् ॥

अन्वयः
सूर्यप्रभवः वंशः क्व, अल्पविषया (मम) मतिः च क्व? (अहं) मोहाद् उडुपेन दुस्तरं सागरं तितीर्षुः अस्मि ॥1.2॥

वाच्यपरिवर्तनम्
सूर्यप्रभवेण वंशेन क्व (भूयते) अल्पविषयया (मम) मत्या च क्व (भूयते) मया तितीर्षुणा भूयते ॥

सरलार्थः
यथा हि कश्चित् मंदधीः लघुतृणादिनिर्मितस्य प्लवस्य साहाय्येन महासागरतरणे प्रवर्तते तथैव मंदबुद्धिरहमपि क्षुद्राशयग्राहिणो निजज्ञानस्य साहाय्येन सुविस्तृतसूर्यकुलवर्णने प्रवृत्तोस्मि ॥

तात्पर्यम्
कहां तो सूर्य से उत्पन्न हुआ वंश और कहां थोड़े बुद्धि व्यवहार वाला मैं? मूर्खता से कठिनता से करने योग्य समुद्र को उसकी नाव के सहारे उतरना चाहता हूँ ॥१.२॥

1 comment:

  1. कालिदासः स्वयम् अल्पमतिः इति यदि चिन्तयति, तत्र अस्मिन् काले तस्य काव्यस्य पठिताराः वयं कथं वा स्मः! अस्माकं मतिः अणुवत् इत्येव कथितुमपि अशक्ताः यतः एकः अणुः अपि महाशक्तः इति तु जानीमः!

    ReplyDelete