Monday, July 16, 2018

रघुवंशम्-१.४

श्लोकः
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥1.4॥

पदविभागः
अथ वा कृत-वाक्-द्वारे वंशे अस्मिन् पूर्व-सूरिभिः । मणौ वज्र-समुत्कीर्णे सूत्रस्य इव अस्ति मे गतिः ॥

अन्वयः
अथ वा पूर्वसूरिभिः कृतवाग्द्वारे अस्मिन् वंशे, वज्रसमुत्कीर्णे मणौ सूत्रस्य इव मे गतिः अस्ति ॥1.4॥

वाच्यपरिवर्तनम्
अथ वा पूर्वसूरिभिः कृतवाग्द्वारे अस्मिन् वंशे, वज्रसमुत्कीर्णे मणौ सूत्रस्य इव मे गत्या भूयते ॥

सरलार्थः
यथा अतिकोमलमपि सूत्रं हीरकसूचीकृतेन छिद्रमार्गेण कठिनेऽपि मणौ विशति तथा हीनापि मे बुद्धिः वाल्मीकिकविकृतेन रामायणाख्य-काव्यद्वारेणातिदुर्गमेऽपि रघुवंशे प्रवेक्ष्यति। पूर्वकवीनां रामायणादिप्रबन्ध-साहाय्येनाहं दुर्वचनेऽपि रघुवंशवर्णने समर्थः स्यामिति भावः ॥

तात्पर्यम्
अथवा पहले पंडितों के वाग् द्वारा (वचन रूपी दरवाजा) किए हुए इस रघुवंश में मेरी गति हीरे से छेदन की हुई मणि में डोरी की समान है ॥१.४॥

No comments:

Post a Comment