Tuesday, July 17, 2018

रघुवंशम्-१.१४

रघुवंशम्-1.14

श्लोकः
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥1.14॥

पदविभागः
सर्व-अतिरिक्त-सारेण सर्व-तेज-अभिभाविना । स्थितः सर्व-उन्नतेन-उर्वीं क्रान्त्वा मेरुः इव आत्मना ॥

अन्वयः
(पुनः किंभूतः सः?) सर्वातिरिक्तसारेण सर्वतेजोभिभाविना सर्वोन्नतेन आत्मना मेरुः इव उर्वीं क्रान्त्वा स्थितः ॥1.14॥

वाच्यपरिवर्तनम्
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना सर्वोन्नतेन आत्मना उर्वीं क्रान्त्वा मेरुणा इव (तेन) स्थितम् ॥

सरलार्थः
सुमेरुः यथा निजस्थिरांशेन सर्वान् सङ्घातकठिनान् पदार्थान् परिभवति, कान्त्या च सर्वान् ज्वलितपदार्थान् तिरस्करोति, औन्नत्येन सर्वान् उन्नतपदार्थान् निराकरोति, आयतत्वेन सम्पूर्णां वसुधां व्याप्यस्य सुतिष्ठति तथा सोऽपि दिलीपः विक्रमेण शूरान्, तेजसा तेजस्विनः देहमनसोः औन्नत्येन महापुरुषान् बलेन धरां समाक्रम्य तस्थौ ॥

तात्पर्यम्
सबसे अधिक बलवान सबसे अधिक तेजस्वी सबसे ऊंचे शरीर से पृथ्वी को दबाकर सुमेरु की नाईं आक्रमण कर बैठा ॥१.१४॥

No comments:

Post a Comment