Sunday, July 15, 2018

रघुवंशम्-१.१

श्लोकः
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥1.1

पदविभागः
वाग्-अर्थौ इव सम्पृक्तौ वाग्-अर्थ-प्रतिपत्तये। जगतः पितरौ वन्दे पार्वती-परमेश्वरौ ।

अन्वयः
(अहम्) वागर्थप्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वतीपरमेश्वरौ वन्दे ॥1.1॥

वाच्यपरिवर्तनम्
(मया) वागर्थप्रतिपत्तये वागर्थाविव सम्पृक्तौ जगतः पितरौ पार्वतीपरमेश्वरौ वन्द्येते ।

सरलार्थः
अहं विशिष्टशब्दार्थयोः सम्यग् ज्ञानार्थे शब्दार्थाविव नित्यसम्मिश्रौ संसारस्य मातापितरौ शिवाशिवौ भक्तया नमस्करोमि (पार्वतीपरमेश्वरौ प्रसन्नौ भूत्वा मयि काव्यरचनाशक्तिं देदीयेतामिति भावः) ॥

तात्पर्यम्
मैं वाणी और अर्थ की सिद्धि के निमित्त वाणी और अर्थ के समान मिले हुए जगत् के माता पिता पार्वती शिव को प्रणाम करता हूँ ॥१.१॥

10 comments:

  1. उत्तमप्रयत्नः भगिनि! अस्माकं ज्ञानाय उपयोगाय च भवति!

    ReplyDelete
  2. अद्भुतमस्ति। धन्यवादाः

    ReplyDelete
  3. 🙏🙏बहु सम्यक् पद्धतिः। वाच्यपरिवर्तनं विशेषेण अरोचत।

    ReplyDelete
  4. कोटि-कोटि नमन

    ReplyDelete
  5. अद्भुतमस्ति। नमांसि

    ReplyDelete
  6. सर्वश्रेष्ठ है।

    ReplyDelete