Tuesday, July 17, 2018

रघुवंशम्-१.१७

रघुवंशम्-1.17

श्लोकः
रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥1.17॥

पदविभागः
रेखा-मात्रम् अपि क्षुण्णाद् आमनोः-वर्त्मनः परम् । न व्यतीयुः प्रजाः तस्य नियन्तुः नेमि-वृत्तयः ॥

अन्वयः
नियन्तुः तस्य नेमिवृत्तयः प्रजाः आमनोः क्षुण्णात् वर्त्मनः परं रेखामात्रम् अपि च व्यतीयुः ॥1.17॥

वाच्यपरिवर्तनम्
नियन्तुः तस्य नेमिवृत्तिभिः प्रजाभिः आमनोः क्षुण्णात् वर्त्मनः परं रेखामात्रमपि न व्यतीये ॥

सरलार्थः
यथा हि सारथेः कौशलेन रयस्य पश्चाद्वर्तिन्यः चक्रधाराः अग्रे वर्तनीभिः चक्रधाराभिः महतः पथः इतस्ततः रेखामात्रमपि नैव अतिक्रामन्ति तथा दिलीपस्य प्रजापालनकौशलेन सर्वाः प्रजाः पूर्वजनैः अभ्यस्ताः मनुकथितात् मार्गात् इतस्ततः रेखामात्रमपि न व्यतीयुः। (सर्वे ब्राह्मणक्षत्रियशूद्रादयः स्वस्वधर्मे सर्वथा आरूढा आसन् इति भावः) ॥

तात्पर्यम्
उच्च शिक्षा करनेवाले की प्रजा मनु के मार्ग अभ्यास की हुई रथ के पहिए की भांति चलने वाली रेखा मात्र भी बाहर नहीं गई ॥१.१७॥

No comments:

Post a Comment