Tuesday, July 17, 2018

रघुवंशम्-१.२७

रघुवंशम्-1.27

श्लोकः
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥1.27॥

पदविभागः
न किल अनुययुः तस्य राजानः रक्षितुः यशः । व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥

अन्वयः
(अन्ये) राजानः रक्षितुः तत् यशः न अनुययुः किल यत् (यस्मात्) तस्करता परस्वेभ्यः व्यावृत्ता (सती) श्रुतौ स्थिता ॥1.27॥

वाच्यपरिवर्तनम्
(अन्यैः) राजभिः रक्षितुः तस्य यशः न अनुयये किल तस्करतया परस्वेभ्यः व्यावृत्ता (सत्या) श्रुतौ स्थितम् ॥

सरलार्थः
दिलीपसदृशः कोपि अन्यः राजा प्रजाः पालयितुं न समर्थो बभूव यतः तस्य प्रभावात् राज्ये तस्करा नैव आसन्। अस्मात् चौर्यं स्वरूपतः केनापि कदापि न दृष्टम् खपुष्पवत् नाममात्रेणैव स्थितमिति सरलार्थः ॥

तात्पर्यम्
उस (प्रजाकी) रक्षा करने वाले को यश को अन्य राजा न पहुंच सके। क्योंकि (महाराज दिलीप के पालन में) दूसरे के धन से निकली हुई चोरी नाम में अथवा कान में रही ॥१.२७॥
[चोरियाँ नहीं होती थी। “परों के धन का अपहरण किया” इस क्रिया अर्थ को खोगया, और वह शब्द - “गगनकुसुम” के समान केवल शब्द बच गया।]

No comments:

Post a Comment