Tuesday, July 17, 2018

रघुवंशम्-१.१०

रघुवंशम्-1.10

श्लोकः
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥1.10॥

पदविभागः
तं सन्तः श्रोतुम् अर्हन्ति सद्-असद्-व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिका अपि वा ॥

अन्वयः
सदसद्व्यक्ति-हेतवः सन्तः तं श्रोतुम् अर्हन्ति हि (यतः) हेम्नः विशुद्धिः वा श्यामिका अपि अग्नौ संलक्ष्यते ॥1.10॥

वाच्यपरिवर्तनम्
सदसद्व्यक्तिहेतुभिः सद्भिः स श्रोतुं अर्हते। हि हेम्नः विशुद्धि वा श्यामिकाम् अपि अग्नौ (जनाः) संलक्षयन्ति ॥

सरलार्थः
यथा हि सुवर्णस्योत्कृष्टता वह्नितापेन निर्णीयते तथा काव्यस्य गुणो दोषो वा सहृदयानां पण्डितानां विचारेणैव निर्णीयते। अत एव मदीयं काव्यमिदं सहृदयैः सद्भिरेव श्रोतव्यम्। हेमतुल्यं काव्यं वह्नितुल्ये सहृदयहृदये परीक्षणीयम् ॥

तात्पर्यम्
उस वंश को सुनने को सत्य असत्य का निर्णय करने वाले संत ही योग्य है। सोने की पवित्रता और कलौंच अग्नि ही में देखी जाती है ॥१.१०॥
इन दस श्लोकों के अवतारिका के बाद कथा का प्रारंभ!

No comments:

Post a Comment