Tuesday, July 17, 2018

रघुवंशम्-१.२४

रघुवंशम्-1.24

श्लोकः
प्रजानां विनयाधानाद् रक्षणाद् भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥1.24॥

पदविभागः
प्रजानां विनय-आधानात् रक्षणात् भरणात् अपि । सः पिता पितरः तासां केवलं जन्म-हेतवः ॥

अन्वयः
विनयाधानाद् रक्षणाद् भरणाद् अपि सः प्रजानां पिता (आसीत्)। तासां (प्रजानाम्) पितरः केवलं जन्महेतवः (आसन्) ॥1.24॥

वाच्यपरिवर्तनम्
विनयाधानात् रक्षणात् भरणाद् अपि तेन प्रजानां पित्रा (अभूयत)। तासां पितृभिः जन्महेतुभिः (अभूयत) ॥

सरलार्थः
स शिक्षाप्रदानेन सर्वान् जनान् सतां मार्गे प्रवर्तयामास। भयाद् ररक्ष। जीविकाविधानेन बभार। अस्मात् स प्रजानां प्रकृतपितृ-पदवाच्यः आसीत्। तासां प्रकृतीनां पितरस्तु केवलं जन्महेतवः आसन्। सर्वेषां जनानां सर्वाणि पितॄचितकर्तव्यानि कृत्वा स सर्वलोकप्रियोऽभूत् ॥

तात्पर्यम्
वह नीति सिखलाने, रक्षा करने और पालने से प्रजाओं का पिता था। उनके माता पिता केवल जन्म देने के ही कारण थे ॥१.२४॥

No comments:

Post a Comment