Tuesday, July 17, 2018

रघुवंशम्-१.१३

रघुवंशम्-1.13

श्लोकः
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥1.13॥

पदविभागः
व्यूढ-उरस्कः वृष-स्कन्धः शाल-प्रांशुः महा-भुजः । आत्म-कर्म-क्षमं देहं क्षात्रः धर्म इव आश्रितः ॥

अन्वयः
(कथं भूतः दिलीपः?) व्यूढोरस्कः, वृषस्कन्धः, शालप्रांशुः, महाभुजः। (अस्माद् एव) आत्मकर्मक्षमं देहम् आश्रितः क्षात्रः धर्म इव स्थितः ॥1.13॥

वाच्यपरिवर्तनम्
व्यूढोरस्केन वृषस्कन्धेन शालप्रांशुना महाभुजेन आत्मकर्मक्षमं देहम् आश्रितेन (तेन) क्षात्रेण धर्मेण इव स्थितम् ॥

सरलार्थः
तस्य नृपस्य शरीरोत्कर्षः लोकोत्तरः आसीत्। सः सर्वजगद्रक्षणक्षमां मानुषीं तनुं परिगृह्य अवस्थितः प्रत्यक्षं क्षत्रियधर्म इव दिदीपे। वीरधर्म एवायं दिलीपस्य रूपं कृत्वा वर्तते इति भावः ॥

तात्पर्यम्
बड़ी चौड़ी छाती वाला, बैलकेसे (ऊँचे) कंधों वाला, शाल के समान लंबी बड़ी बाहों वाला, अपने कार्य में समर्थ, मानो क्षत्रियों का धर्म देह धारण किए हुए है ॥१.१३॥
अपने कार्यों के अनुरूप देह को आश्रत किए हुए क्षात्रधर्मं के समान (मूर्तीभवित क्षात्रधर्मं के समान) था।

No comments:

Post a Comment