Monday, July 16, 2018

रघुवंशम्-१.३

श्लोकः
मन्दः कवियशःप्रार्थी गमिष्याम्यपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥1.3

पदविभागः
मन्दः कवि-यशः-प्रार्थी गमिष्यामि अपहास्यताम् । प्रांशु-लभ्ये फले लोभात् उद्बाहुः इव वामनः ॥

अन्वयः
मन्दः (तथापि) कवियशःप्रार्थी (सन् अहं) प्रांशुलभ्ये फले लोभाद् उद्बाहुः वामनः इव अपहास्यतां गमिष्यामि. ॥1.3

वाच्यपरिवर्तनम्
मन्देन कवियशःप्रार्थिना (मया) प्रांशुलभ्ये फले लोभेन उद्बाहुना वामनेन इव अपहास्यता गंस्यते

सरलार्थः
उन्नतपुरुषलभ्यं फलं ग्रहीतुम् उच्छ्रितहस्तस्य खर्वस्य चेष्टा यथा अपहसनीया भवति तथैव महाकविलभ्यां कीर्तिं लब्धुं प्रवृत्तस्य हीनबुद्धेः ममापि चेष्टा अपहसनीया भविष्यति. (अहो मे मूढता यदहमसमर्थोऽपि महाकाव्यविरचने प्रवृत्तः.)

तात्पर्यम्
कवीश्वरों के यश का चाहने वाला मैं क्षुद्रबुद्धि हंसी को प्राप्त हूंगा। जैसे लंबे पुरुष के हाथ लगने योग्य फल की और लोभ से ऊंची बाहें उठाने वाला बौना ॥१.३॥

No comments:

Post a Comment