Tuesday, July 17, 2018

रघुवंशम्-१.२३

रघुवंशम्-1.23

श्लोकः
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥1.23॥

पदविभागः
अनाकृष्टस्य विषयैः विद्यानां पार-दृश्वनः । तस्य धर्म-रतेः आसीत् वृद्धत्वं जरसा विना ॥

अन्वयः
विषयैः अनाकृष्टस्य विद्यानां पारदृश्वनः धर्मरतेः तस्य (दिलीपस्य) जरसा विना वृद्धत्वम् आसीत् ॥1.23॥

वाच्यपरिवर्तनम्
विषयैः अनाकृष्टस्य विद्यानां पारदृश्वनः धर्मरतेः तस्य (राज्ञः) जरसा विना वृद्धत्वेन अभूयत ॥

सरलार्थः
यूनोऽपि तस्य दिलीपस्य विषयवैराग्ये, वेदवेदाङ्गज्ञाने, धर्मानुष्ठाने च बुद्धेः अधिका परिणतिः जाता। युवावस्थायामपि स चतुष्पदार्थेषु अधिकतरां चतुरतां लेभे इति भावः ॥

तात्पर्यम्
उसे जिसे विषयों ने अपनी और ना खींचा, विद्याओं के पार दिखने वाले को, (पूर्णविद्यावान् को) धर्म में रुचि रखने वाले को, बिना वृद्धावस्था प्राप्त हुए बुढ़ापा हुआ ॥१.२३॥
[राजा दिलीप की आयु के अनुसार युवक था, पर वृद्धों के समान मानसिक परिणति उसमें थी।]

No comments:

Post a Comment