Tuesday, July 17, 2018

रघुवंशम्-१.१९

रघुवंशम्-1.19

श्लोकः
सेनापरिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥1.19॥

पदविभागः
सेना-परिच्छदः तस्य द्वयम् एव अर्थ-साधनम् । शास्त्रेषु अकुण्ठिता बुद्धिः मौर्वी धनुषि च आतता ॥

अन्वयः
तस्य सेना परिच्छदः (आसीत्)। शास्त्रेषु अकुंठिता बुद्धिः, धनुषि आतता मौर्वी च- (एतत्) द्वयम् एव अर्थसाधनम् (बभूव) ॥1.19॥

वाच्यपरिवर्तनम्
तस्य सेना परिच्छदेन अभूयत शास्त्रेषु अकुंठितया बुद्ध्या धनुषि आततया मौर्व्या च द्वयेन एव अर्थसाधनेन (अभूयत) ॥

सरलार्थः
नृपेण छत्रचामरादिवत् सैन्यमपि अवश्यमेव रक्षणीयमिति सचतुरंगिणीं सेनां रक्षितवान्। शत्रुपराजयराज्यपालनादिकं तु संपूर्णं स्वेनैव पराक्रमेण अकरोत्। (स्वयंसमर्थस्य दिलीपस्य क्वचिदपि कार्ये अन्यपुरुषस्यापेक्षा नासीदिति भावः।) ॥

तात्पर्यम्
सेना से जुड़े हुए उसके प्रजा प्रयोजन के साधन दो ही थे। शास्त्र में तीक्ष्ण बुद्धि और धनुष में चढ़ी हुई प्रत्यंचा (रोदा) ॥१.१९॥

No comments:

Post a Comment