Tuesday, July 17, 2018

रघुवंशम्-१.१८

रघुवंशम्-1.18

श्लोकः
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥1.18॥

पदविभागः
प्रजानाम् एव भूति-अर्थं सः ताभ्यः बलिम् अग्रहीत् । सहस्र-गुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः ॥

अन्वयः
सः प्रजानाम् एव भूत्यर्थं ताभ्यः (प्रजाभ्यः) बलिं अग्रहीत् हि (यतः) रविः सहस्रगुणम् (यथा तथा) उत्स्रष्टुं रसम् आदत्ते ॥1.18॥

वाच्यपरिवर्तनम्
तेन प्रजानाम् एव भूत्यर्थं ताभ्यः बलिः अग्राहि हि। रविणा सहस्रगुणम् उत्स्रष्टुं रसः आदीयते ॥

सरलार्थः
यथा रविः स्वकिरणैः धराया रसं गृह्णाति समये च पुनः सहस्रगुणं जलं दत्त्वा वसुधाया धान्यसम्पदं वर्धयति, तथा स दिलीपोऽपि प्रकृतिभ्यः करं गृह्णाति स्म समये तत्सहस्रगुणं सुखं दत्त्वा प्रकृतीनां सत्त्वान् वर्धयति स्म (स परिमितं करं गृह्णाति स्म प्रजानां सुखसाधनमपरिमितमासीत्।) ॥

तात्पर्यम्
प्रजाओं के कल्याण करने के निमित्त को भी उनसे उसने कर लिया। जैसे सूर्य संसार हज़ार गुणा बरसाने ही को (पृथ्वी से) जल लेता है ॥१.१८॥

No comments:

Post a Comment